हनुमान चालीसा संस्कृतानुवादः
कीर्तिश्च सर्वत्र देदीप्यते महीतले ॥ २९॥
साधूनां खलु सन्तानां रक्षयिता कपीश्वरः ।
राक्षसकुलसंहर्ता रामस्य प्रिय वानर ॥ ३०॥
सिद्धिदो निधिदस्त्वञ्च जनकनन्दिनी स्वयम् ।
दत्तवती वरं तुभ्यं जननी विश्वरूपिणी ॥ ३१॥
कराग्रे वायुपुत्रस्य चौषधिः रामरूपिणी ।
रामस्य कोशलेशस्य पादारविन्दवन्दनात् ॥ ३२॥
पूजया मारुतपुत्रस्य नरो प्राप्नोति राघवम् ।
जन्मनां कोटिसङ्ख्यानां दूरीभवन्ति पातकाः ॥ ३३॥
देहान्ते च पुरं रामं भक्ताः हनुमतो सदा ।
प्राप्य जन्मनि सर्वे हरिभक्ताः पुनः पुनः ॥ ३४॥
देवानामपि सर्वेषां संस्मरणं वृथा खलु ।
कपिश्रेष्ठस्य सेवा हि प्रददाति सुखं परम् ॥ ३५॥
करोति सङ्कटं दूरं सङ्कटमोचनो कपिः ।
नाशयति च दुःखानि केवलं स्मरणं कपेः ॥ ३६॥
जयतु वानरेशश्च जयतु हनुमत्प्रभुः ।
गुरुदेवकृपातुल्यं करोतु मम मङ्गलम् ॥ ३७॥
श्रद्धया येन केनापि शतवारञ्च पठ्यते ।
मुच्यते बन्धनाच्छीघ्रं प्राप्नोति परमं सुखम् ॥ ३८॥
स्तोत्रं तु रामदूतस्य चत्वारिंशच्च सङ्ख्यकम् ।
पठित्वा सिद्धिमाप्नोति साक्षी कामरिपुः स्वयम् ॥ ३९॥
सर्वदा रघुनाथस्य तुलसी सेवकः परम् ।
विज्ञायेति कपिश्रेष्ठ वासं मे हृदये कुरु ॥ ४०॥
विघ्नोपनाशी पवनस्य पुत्रः कल्याणकारी हृदये कपीशः ।
सौमित्रिणा राघवसीतया च सार्धं निवासं कुरु रामदूत ॥
जय जय श्री हनुमते नमः ॥
देवदत्तो गुरुर्यस्य मार्कण्डेयश्च गोत्रकम् ।
अनुवादः कृतस्तेन कृपया पितृपादयोः ॥
श्री हनुमानजी सदैव आपका कल्याण करेँ ।
इति श्रीरवींद्रकुमार मार्कण्डेय विरचितः हनुमान चालीसा संस्कृतानुवादः सम्पूर्णः ।