KaryaVidhan

आपदुद्धारकबटुकभैरवाष्टोत्तरशतनामस्तोत्रम्

Page 1 of 1

(रुद्रयामलेतन्त्रेविश्वसारोद्धारे)
अथ मूलनामावलीपाठः -
ॐ ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावनः ।
क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रदः क्षत्रियो विराट् ॥ १॥

श्मशानवासी मांसाशी खर्पराशी स्मरान्तकः ।
रक्तपः पानपः सिद्धः सिद्धिदः सिद्धसेवितः ॥ २॥

कङ्कालः कालशमनः कलाकाष्ठातनुः कविः ।
त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥ ३॥

शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः ।
अभीरुर्भैरवीनाथो भूतपो योगिनीपतिः ॥ ४॥

धनदोऽधनहारी च धनवान् प्रतिभानवान् ।
नागहारो नागपाशो व्योमकेशः कपालभृत् ॥ ५॥

कालः कपालमाली च कमनीयः कलानिधिः ।
त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकपः ॥ ६॥

त्रिनेत्रतनयो डिम्भशान्तः शान्तजनप्रियः ।
बटुको बहुवेषश्च खट्वाङ्गवरधारकः ॥ ७॥

भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः ।
धूर्तो दिगम्बरः शूरो हरिणः पाण्डुलोचनः ॥ ८॥

प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः ।
अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तपोमयः ॥ ९॥

अष्टाधारः षडाधारः सर्पयुक्त शिखीसखः ।
भूधरो भूधराधीशो भूपतिर्भूधरात्मजः ॥ १०॥

कङ्कालधारी मण्डी च आन्त्रयज्ञोपवीतवान् ।
जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥ ११॥

शुद्धनीलाञ्जनप्रख्यो दैत्यहा मुण्डभूषितः ।
बलिभुग् बलिभुङ्नाथो बालोऽबालपराक्रमः ॥ १२॥

सर्वापत्तारणो दुर्गो दुष्टभूतनिषेवितः ।
कामी कलानिधिकान्तः कामिनीवशकृद् वशी ॥ १३॥

जगद्रक्षाकरोऽनन्तो मायामन्त्रौषधीमयः ।
सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुरितीव ह्रि ह्रीं ॐ ॥ १४
(सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुः करोतु शम्) ॥ १४॥

फलश्रुतिपाठः -
(शिवपार्वतीसंवादे)
अष्टोत्तरशतं नाम्ना भैरवस्य महात्मनः ।
मया ते कथितं देवि रहस्यं सर्वकामदम् ॥

य इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् ।
न तस्य दुरितं किञ्चिन्न रोगेभ्यो भयं भवेत् ॥

न च मारीभयं किञ्चिन्न च भूतभयं क्वचित् ।
न शत्रुभ्यो भयं किञ्चित् प्राप्नुयान्मानवः क्वचित् ॥

पातकेभ्यो भयं नैव यः पठेत् स्तोत्रमुत्तमम् ।
मारीभये राजभये तथा चौराग्निजे भये ॥

औत्पातिके महाघोरे तथा दुःस्वप्नदर्शने ।
बन्धने च तथा घोरे पठेत् स्तोत्रमनुत्तमम् ॥

सर्व प्रशममायाति भयं भैरवकीर्तनात् ।
एकादशसहस्रन्तु पुरश्चरणमुच्यते ॥

यस्त्रिसन्ध्यं पठेद्देवि संवत्सरमतन्द्रितः ।
स सिद्धिं प्राप्नुयादिष्टां दुर्लभामपि मानवः ॥

षण्मासं भूमिकामस्तु जपित्वा प्राप्नुयान्महीम् ।
राजशत्रुविनाशार्थं पठेन्मासाष्टकं पुनः ॥

रात्रौ वारत्रयं चैव नाशयत्येव शात्रवान् ।
जपेन्मासत्रयं मर्त्यो राजान वशमानयेत् ॥

धनार्थी च सुतार्थी च दारार्थी चापि मानवः ।
पठेन्मासत्रयं देवि वारमेकं तथा निशि ॥

धनं पुत्रं तथा दारान् प्राप्नुयान्नात्र संशयः ।
रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ।
भीतो भयात् प्रमुच्येत तत्तदापन्न आपदः ॥

निगडैश्चापि बद्धो यः कारागृहनिपातितः ।
श‍ृङ्खलाबन्धनं प्राप्तः पठेच्चैव दिवानिशम् ॥

यान् यान् समीहते कामाँस्ताँस्तानाप्नोति मानवः ।
अप्रकाश्यं परं गुह्यं न देयं यस्य कस्यचित् ॥

सुकुलीनाय शान्ताय ऋजव दम्भवर्जिते(ने) ।
दद्यात् स्तोत्रमिदं पुण्यं सर्वकामफलप्रदम् ॥

य इदं पठते नित्यं धनधान्यमवाप्नुयात् ।

॥ इति श्रीरुद्रयामलेतन्त्रेविश्वसारोद्धारे श्रीमदापदुद्धारकबटुकभैरवस्तोत्रं सम्पूर्णम् ॥