KaryaVidhan

श्रीमृत्युञ्जयस्तोत्रम्

Page 1 of 1

ॐ नमो मृत्युञ्जयाय ।
नन्दिकेश्वर उवाच -
कैलासस्योत्तरे श‍ृङ्गे शुद्धस्फटिकसन्निभे ।
तमोगुणविहीने तु जरामृत्युविवर्जिते ॥ १॥

सर्वार्थ सम्पदाधारे सर्वज्ञानकृतालये ।
कृताञ्जली पुटो ब्रह्मा ध्यानासीनं सदाशिवम् ॥ २॥

पप्रच्छ प्रणतो भूत्वा जानुभ्यामवनिङ्गतः ।
सर्वार्थसम्पदाधार ब्रह्मा लोकपितामहः ॥ ३॥

ब्रह्मोवाच -
केनोपायेन देवेश चिरायुर्लोमशोऽभवत् ।
तन्मे ब्रूहि महेशान लोकानां हितकाम्यया ॥ ४॥

श्रीसदाशिव उवाच -
श‍ृणु ब्रह्मन् प्रवक्ष्यामि चिरायुर्मुनिसत्तमः ।
सञ्जातः कर्मणा येन व्याधिमृत्युविवर्जितः ॥ ५॥

तस्मिन्नेकार्णवे घोरे सलिलौघपरिप्लुते ।
कृतान्तभयनाशाय स्तुतो मृत्युञ्जयः शिवः ॥ ६॥

तस्य सङ्कीर्तनान्नित्यं मुनिर्मृत्युविवर्जितः ।
तमेव कीर्तयन् ब्रह्मन् मृत्यु जेतुं न संशयः ॥ ७॥

लोमश उवाच -
देवाधिदेव देवेश सर्वप्राण भृतांवर ।
प्राणिनामसि नाथस्त्वं मृत्युञ्जय नमोऽस्तु ते ॥ ८॥

देहिनां जीवभूतोऽसि जीवो जीवस्य कारणम् ।
जगतां रक्षकस्त्वं वै मृत्युञ्जय नमोऽस्तु ते ॥ ९॥

हेमाद्रिशिखराकारे सुधावीचिमनोहर ।
पुण्डरीकपरं ज्योतिर्मुत्युञ्जय नमोऽस्तु ते ॥ १०॥

ध्यानाधार महाज्ञान सर्वज्ञानैककारण ।
परित्रातासि लोकानां मृत्युञ्जय नमोऽस्तु ते ॥ ११॥

निहता येन कालेन सदेवासुरमानुषाः ।
गन्धर्वाप्सरसश्चैव सिद्धविद्याधरास्तथा ॥ १२॥

साध्याश्च वसवो रुद्रास्तथाश्विनिसुतावुभौ ।
मरुतश्च दिशो नागाःस्थावरा जङ्गमास्तथा ॥ १३॥

जितः सोऽपि त्वया ध्यायन् मृत्युञ्जय नमोऽस्तु ते ॥ १४॥

ये ध्यायन्ति परां मूर्तिं पूजयन्त्यमरादयः ।
न ते मृत्युवशं यान्ति मृत्युञ्जय नमोऽस्तु ते ॥ १५॥

त्वमोङ्कारोऽसि वेदानां देवानां च सदाशिवः ।
आधारशक्तिः शक्तीनां मृत्युञ्जय नमोऽस्तु ते ॥ १६॥

स्थावरे जङ्गमे वापि यावत्तिष्ठति देहगः ।
जीवत्यपत्यलोकोऽयं मृत्युञ्जय नमोऽस्तु ते ॥ १७॥

सोमसूर्याग्निमध्यस्थव्योमव्यापिन् सदाशिव ।
कालत्रयमहाकाल मृत्युञ्जय नमोऽस्तु ते ॥ १८॥

प्रबुद्धे चाप्रबुद्धे च त्वमेव सृजसे जगत् ।
सृष्टिरूपेण देवेश मृत्युञ्जय नमोऽस्तु ते ॥ १९॥

व्योम्नि त्वं व्योमरूपोऽसि तेजः सर्वत्र तेजसि ।
ज्ञानिनां ज्ञानरूपोऽसि मृत्युञ्जय नमोऽस्तु ते ॥ २०॥

जगज्जीवो जगत्प्राणः स्रष्टा त्वं जगतः प्रभुः ।
कारणं सर्वतीर्थानां मृत्युञ्जय नमोऽस्तु ते ॥ २१॥

नेता त्वमिन्द्रियाणां च सर्वज्ञानप्रबोधकः ।
सांख्ययोगश्च हंसश्च मृत्युञ्जय नमोऽस्तु ते ॥ २२॥

रूपातीतः सरूपश्च पिण्डस्थपदमेव च ।
चतुर्युगकलाधार मृत्युञ्जय नमोऽस्तु ते ॥ २३॥

रेचके वह्निरूपोऽसि सोमरूपोऽसि पूरके ।
कुम्भके शिवरूपोऽसि मृत्युञ्जय नमोऽस्तु ते ॥ २४॥

क्षयङ्करोऽसि पापानां पुण्यानामपि वर्धनम् ।
हेतुस्त्वं श्रेयसां नित्यं मृत्युञ्जय नमोऽस्तु ते ॥ २५॥

सर्वमायाकलातीत सर्वेन्द्रिय परावर ।
सर्वेन्द्रियकलाधीश मृत्युञ्जय नमोऽस्तु ते ॥ २६॥

रूपं गन्धो रसः स्पर्शः शब्दः संस्कार एव च ।
त्वत्तः प्रकाश एतेषां मृत्युञ्जय नमोऽस्तु ते ॥ २७॥

चतुर्विधानां सृष्टीनां हेतुस्त्वं कारणेश्वर ।
भावाभावपरिच्छिन्न मृत्युञ्जय नमोऽस्तु ते ॥ २८॥

त्वमेको निष्कलो लोके सकलम्भुवनत्रये ।
अतिसूक्ष्मातिरूपस्त्वं मृत्युञ्जय नमोऽस्तु ते ॥ २९॥

त्वं प्रबोधस्त्वमाधार त्वद्बीजं भुवनत्रयम् ।
सत्वं रजस्तमस्त्वं हि मृत्युञ्जय नमोऽस्तु ते ॥ ३०॥

त्वं सोमस्त्वं दिनेशश्च त्वमात्मा प्रकृतेः परः ।
अष्टत्रिंशत्वकलानाथ मृत्युञ्जय नमोऽस्तु ते ॥ ३१॥

सर्वेन्द्रियाणामाधारः सर्वभूतगुणाश्रयः ।
सर्वज्ञानमयानन्त मृत्युञ्जय नमोऽस्तु ते ॥ ३२॥

त्वमात्मा सर्वभूतानां गुणानां त्वमधीश्वरः ।
सर्वानन्दमयाधार मृत्युञ्जय नमोऽस्तु ते ॥ ३३॥

त्वं यज्ञः सर्वयज्ञानां त्वं बुद्धिर्बोघलक्षणा ।
शब्दब्रह्मस्त्वमोङ्कारो मृत्युञ्जय नमोऽस्तु ते ॥ ३४॥

श्रीसदाशिव उवाच -
एवं सङ्कीर्तयेद्यस्तु शुचिस्तद्गतमानसः ।
भक्त्या श‍ृणोति यो ब्रह्मन् न स मृत्युवशो भवेत् ॥ ३५॥

न च मृत्युभयं तस्य प्राप्तकालं च लङ्घयेत् ।
अपमृत्युभयं तस्य प्रणश्यति न संशयः ॥ ३६॥

व्याधयो नोपपद्यन्ते नोपसर्गभयं भवेत् ।
प्रत्यासन्नान्तरे काले शतैकावर्तने कृते ॥ ३७॥

मृत्युर्न जायते तस्य रोगान् मुञ्चति निश्चितम् ।
पञ्चम्यां वा दशम्यां वा पौर्णमास्यामथापि वा ॥ ३८॥

शतमावर्तयेद्यस्तु शतवर्षं स जीवति ।
तेजस्वी बलसम्पन्नो लभते श्रियमुत्तमाम् ॥ ३९॥

त्रिविधं नाशयेत्पापं मनो-वाक्-कायसम्भवम् ।
अभिचाराणि कर्माणि कर्माण्याथर्वणानि च ।
क्षीयन्ते नात्र सन्देहो दुःस्वप्नश्च विनश्यति ॥ ४०॥

इदं रहस्यं परमं देवदेवस्य शूलिनः ।
दुःस्वप्ननाशनं पुण्यं सर्वविघ्नविनाशनम् ॥ ४१॥

इति श्रीशिवब्रह्मसंवादे श्रीमृत्युञ्जयस्तोत्रं सम्पूर्णम् ।