KaryaVidhan

श्रीमहाकालशनिमृत्युञ्जयस्तोत्रम्

Page 1 of 2

अथः ध्यानम् ।
नीलाद्रिशोभाञ्चितदिव्यमूर्तिः खड्गी त्रिदण्डी शरचापहस्तः ।
शम्भुर्महाकालशनिः पुरारिर्जयत्यशेषासुर नाशकारी ॥

अथः विनियोगः ।
ॐ अस्य श्रीमहाकालशनिमृत्युञ्जय स्तोत्रमन्त्रस्य
पिप्पलादिऋषिरनुष्टुप्छन्दो महाकालशनिर्देवता शं बीजमायसो शक्तिः
कालपुरुषायेति कीलकं ममाकालापमृत्युनिवारणार्थे पाठे विनियोगः ॥

अथ ऋष्यादिन्यासः -
ॐ पिप्पलादऋषये नमः शिरसि ।
ॐ अनुष्टुपछन्दसे नमः मुखे ।
ॐ महाकालशनि देवतायै नमः हृदे ।
ॐ शं बीजाय नमः गुह्ये ।
ॐ आयसी शक्तये नमः पादयोः ।
ॐ कालपुरुषं कीलकाय नमः नाभौ ।
ॐ विनियोगाय नमः सर्वाङ्गे ॥

अथ करन्यासः -
ॐ पिप्पलादऋषये नमः अङ्गुष्ठाभ्यां नमः ।
ॐ अनुष्टुपछन्दसे नमः तर्जनीभ्यां नमः ।
ॐ महाकालशनिदेवतायै नमः मध्यमाभ्यां नमः ।
ॐ शं बीजाय नमः अनामिकाभ्यां नमः ।
ॐ आयसी शक्तये नमः कनिष्ठिकाभ्यां नमः ।
ॐ कालपुरुषं कीलकाय नमः करतलकरपृष्ठाभ्यां नमः ॥

अथ हृदयन्यासः -
ॐ पिप्पलादऋषये हृदयाय नमः ।
ॐ अनुष्टुपछन्दसे शिरसे स्वाहा ।
ॐ महाकालशनिदेवतायै शिखायै वषट् ।
ॐ शं बीजे कवचाय हुम् ।
ॐ आयसी शक्तये नेत्रत्रयाय वौषट् ।
ॐ कालपुरुषाय अस्त्राय फट् ॥

अथ देहन्यासः -
ॐ महोग्रं मूर्ध्नि । ॐ वैवस्वतं मुखे । ॐ मन्दं गले ।
ॐ महाग्रहं बाहवोः । ॐ महाकालं हृदये । ॐ कृशतनुं गुह्ये ।
ॐ तुडुचरं जान्वो । ॐ शनैश्चरं पादयोः ॥

ॐ श्री गणेशाय नमः । ॐ श्री शनैश्चराय नमः ॥

अथ शनैश्चरमृत्युञ्जयस्तोत्रम् ।
ॐ महाकालशनिमृत्युञ्जायाय नमः ।
नीलाद्रीशोभाञ्चितदिव्यमूर्तिः खड्गो त्रिदण्डी शरचापहस्तः ।
शम्भुर्महाकालशनिः पुरारिर्जयत्यशेषासुरनाशकारी ॥ १॥

मेरुपृष्ठे समासीनं सामरस्ये स्थितं शिवम् ।
प्रणम्य शिरसा गौरी पृच्छतिस्म जगद्धितम् ॥ २॥

पार्वत्युवाच -
भगवन् ! देवदेवेश ! भक्तानुग्रहकारक ! ।
अल्पमृत्युविनाशाय यत्त्वया पूर्व सूचितम् ॥ ३॥

तदेवत्वं महाबाहो ! लोकानां हितकारकम् ।
तव मूर्ति प्रभेदस्य महाकालस्य साम्प्रतम् ॥ ४॥

शनेर्मृत्युञ्जयस्तोत्रं ब्रूहि मे नेत्रजन्मनः ।
अकाल मृत्युहरणमपमृत्यु निवारणम् ॥ ५॥

शनिमन्त्रप्रभेदा ये तैर्युक्तं यत्स्तवं शुभम् ।
प्रतिनाम चथुर्यन्तं नमोन्तं मनुनायुतम् ॥ ६॥

श्रीशङ्कर उवाच -
नित्ये प्रियतमे गौरि सर्वलोक-हितेरते ।
गुह्याद्गुह्यतमं दिव्यं सर्वलोकोपकारकम् ॥ ७॥

शनिमृत्युञ्जयस्तोत्रं प्रवक्ष्यामि तवऽधुना ।
सर्वमङ्गलमाङ्गल्यं सर्वशत्रु विमर्दनम् ॥ ८॥

सर्वरोगप्रशमनं सर्वापद्विनिवारणम् ।
शरीरारोग्यकरणमायुर्वृद्धिकरं नृणाम् ॥ ९॥

यदि भक्तासि मे गौरी गोपनीयं प्रयत्नतः ।
गोपितं सर्वतन्त्रेषु तच्छ्रणुष्व महेश्वरी ! ॥ १०॥

ऋषिन्यासं करन्यासं देहन्यासं समाचरेत् ।
महोग्रं मूर्घ्नि विन्यस्य मुखे वैवस्वतं न्यसेत् ॥ ११॥

गले तु विन्यसेन्मन्दं बाह्वोर्महाग्रहं न्यसेत् ।
हृदि न्यसेन्महाकालं गुह्ये कृशतनुं न्यसेत् ॥ १२॥

जान्वोम्तूडुचरं न्यस्य पादयोस्तु शनैश्चरम् ।
एवं न्यासविधि कृत्वा पश्चात् कालात्मनः शनेः ॥ १३॥

न्यासं ध्यानं प्रवक्ष्यामि तनौ श्यार्वा पठेन्नरः ।
कल्पादियुगभेदांश्च कराङ्गन्यासरुपिणः ॥ १४॥

कालात्मनो न्यसेद् गात्रे मृत्युञ्जय ! नमोऽस्तु ते ।
मन्वन्तराणि सर्वाणि महाकालस्वरुपिणः ॥ १५॥

भावयेत्प्रति प्रत्यङ्गे महाकालाय ते नमः ।
भावयेत्प्रभवाद्यब्दान् शीर्षे कालजिते नमः ॥ १६॥

नमस्ते नित्यसेव्याय विन्यसेदयने भ्रुवोः ।
सौरये च नमस्तेऽतु गण्डयोर्विन्यसेदृतून् ॥ १७॥

श्रावणं भावयेदक्ष्णोर्नमः कृष्णनिभाय च ।
महोग्राय नमो भार्दं तथा श्रवणयोर्न्यसेत् ॥ १८॥

नमो वै दुर्निरीक्ष्याय चाश्विनं विन्यसेन्मुखे ।
नमो नीलमयूखाय ग्रीवायां कार्तिकं न्यसेत् ॥ १९॥

मार्गशीर्ष न्यसेद्-बाह्वोर्महारौद्राय ते नमः ।
ऊर्द्वलोक-निवासाय पौषं तु हृदये न्यसेत् ॥ २०॥

नमः कालप्रबोधाय माघं वै चोदरेन्यसेत् ।
मन्दगाय नमो मेढ्रे न्यसेर्द्वफाल्गुनं तथा ॥ २१॥

ऊर्वोर्न्यसेच्चैत्रमासं नमः शिवोस्भवाय च ।
वैशाखं विन्यसेज्जान्वोर्नमः संवर्त्तकाय च ॥ २२॥

जङ्घयोर्भावयेज्ज्येष्ठं भैरवाय नमस्तथा ।
आषाढ़ं पाद्योश्चैव शनये च नमस्तथा ॥ २३॥

कृष्णपक्षं च क्रूराय नमः आपादमस्तके ।
न्यसेदाशीर्षपादान्ते शुक्लपक्षं ग्रहाय च ॥ २४॥

नयसेन्मूलं पादयोश्च ग्रहाय शनये नमः ।
नमः सर्वजिते चैव तोयं सर्वाङ्गुलौ न्यसेत् ॥ २५॥

न्यसेद्-गुल्फ-द्वये विश्वं नमः शुष्कतराय च ।
विष्णुभं भावयेज्जङ्घोभये शिष्टतमाय ते ॥ २६॥

जानुद्वये धनिष्ठां च न्यसेत् कृष्णरुचे नमः ।
ऊरुद्वये वारुर्णान्न्यसेत्कालभृते नमः ॥ २७॥

पूर्वभाद्रं न्यसेन्मेढ्रे जटाजूटधराय च ।
पृष्ठउत्तरभाद्रं च करालाय नमस्तथा ॥ २८॥

रेवतीं च न्यसेन्नाभो नमो मन्दचराय च ।
गर्भदेशे न्यसेद्दस्त्रं नमः श्यामतराय च ॥ २९॥

नमो भोगिस्रजे नित्यं यमं स्तनयुगे न्यसेत् ।
न्येसत्कृत्तिकां हृदये नमस्तैलप्रियाय च ॥ ३०॥

रोहिणीं भावयेद्धस्ते नमस्ते खड्गधारीणे ।
मृगं न्येसतद्वाम हस्ते त्रिदण्डोल्लसिताय च ॥ ३१॥

दक्षोर्द्ध्व भावयेद्रौद्रं नमो वै बाणधारिणे ।
पुनर्वसुमूर्द्ध्व नमो वै चापधारिणे ॥ ३२॥

तिष्यं न्यसेद्दक्षबाहौ नमस्ते हर मन्यवे ।
सार्पं न्यसेद्वामबाहौ चोग्रचापाय ते नमः ॥ ३३॥

मघां विभावयेत्कण्ठे नमस्ते भस्मधारिणे ।
मुखे न्यसेद्-भगर्क्ष च नमः क्रूरग्रहाय च ॥ ३४॥

भावयेद्दक्षनासायामर्यमाणश्व योगिने ।
भावयेद्वामनासायां हस्तर्क्षं धारिणे नमः ॥ ३५॥

त्वाष्ट्रं न्यसेद्दक्षकर्णे कृसरान्न प्रियाय ते ।
स्वातीं न्येसद्वामकर्णे नमो बृह्ममयाय ते ॥ ३६॥

विशाखां च दक्षनेत्रे नमस्ते ज्ञानदृष्टये ।
मैत्रं न्यसेद्वामनेत्रे नमोऽन्धलोचनाय ते ॥ ३७॥

शाक्रं न्यसेच्च शिरसि नमः संवर्तकाय च ।
विष्कुम्भं भावयेच्छीर्षेसन्धौ कालाय ते नमः ॥ ३८॥

प्रीतियोगं भ्रुवोः सन्धौ महामन्दं ! नमोऽस्तु ते ।
नेत्रयोः सन्धावायुष्मद्योगं भीष्माय ते नमः ॥ ३९॥

सौभाग्यं भावयेन्नासासन्धौ फलाशनाय च ।
शोभनं भावयेत्कर्णे सन्धौ पिण्यात्मने नमः ॥ ४०॥

नमः कृष्णयातिगण्डं हनुसन्धौ विभावयेत् ।
नमो निर्मांसदेहाय सुकर्माणं शिरोधरे ॥ ४१॥

धृतिं न्यसेद्दक्षवाहौ पृष्ठे छायासुताय च ।
तन्मूलसन्धौ शूलं च न्यसेदुग्राय ते नमः ॥ ४२॥

तत्कूर्परे न्यसेदगण्डे नित्यानन्दाय ते नमः ।
वृद्धिं तन्मणिबन्धे च कालज्ञाय नमो न्यसेत् ॥ ४३॥

ध्रुवं तद्ङ्गुली-मूलसन्धौ कृष्णाय ते नमः ।
व्याघातं भावयेद्वामबाहुपृष्ठे कृशाय च ॥ ४४॥

हर्षणं तन्मूलसन्धौ भुतसन्तापिने नमः ।
तत्कूर्परे न्यसेद्वज्रं सानन्दाय नमोऽस्तु ते ॥ ४५॥

सिद्धिं तन्मणिबन्धे च न्यसेत् कालाग्नये नमः ।
व्यतीपातं कराग्रेषु न्यसेत्कालकृते नमः ॥ ४६॥

वरीयांसं दक्षपार्श्वसन्धौ कालात्मने नमः ।
परिघं भावयेद्वामपार्श्वसन्धौ नमोऽस्तु ते ॥ ४७॥

न्यसेद्दक्षोरुसन्धौ च शिवं वै कालसाक्षिणे ।
तज्जानौ भावयेत्सिद्धिं महादेहाय ते नमः ॥ ४८॥

साध्यं न्यसेच्च तद्-गुल्फसन्धौ घोराय ते नमः ।
न्यसेत्तदङ्गुलीसन्धौ शुभं रौद्राय ते नमः ॥ ४९॥

न्यसेद्वामारुसन्धौ च शुक्लकालविदे नमः ।
ब्रह्मयोगं च तज्जानो न्यसेत्सद्योगिने नमः ॥ ५०॥

ऐन्द्रं तद्-गुल्फसन्धौ च योगाऽधीशाय ते नमः ।
न्यसेत्तदङ्गुलीसन्धौ नमो भव्याय वैधृतिम् ॥ ५१॥

चर्मणि बवकरणं भावयेद्यज्वने नमः ।
बालवं भावयेद्रक्ते संहारक ! नमोऽस्तु ते ॥ ५२॥

कौलवं भावयेदस्थ्नि नमस्ते सर्वभक्षिणे ।
तैत्तिलं भावयेन्मसि आममांसप्रियाय ते ॥ ५३॥

गरं न्यसेद्वपायां च सर्वग्रासाय ते नमः ।
न्यसेद्वणिजं मज्जायां सर्वान्तक ! नमोऽस्तु ते ॥ ५४॥

विर्येविभावयेद्विष्टिं नमो मन्यूग्रतेजसे ।
रुद्रमित्र ! पितृवसुवारीण्येतांश्च पञ्च च ॥ ५५॥

मुहूर्तांश्च दक्षपादनखेषु भावयेन्नमः ।
खगेशाय च खस्थाय खेचराय स्वरुपिणे ॥ ५६॥

पुरुहूतशतमखे विश्ववेधो-विधूंस्तथा ।
मुहूर्तांश्च वामपादनखेषु भावयेन्नमः ॥ ५७॥

सत्यव्रताय सत्याय नित्यसत्याय ते नमः ।
सिद्धेश्वर ! नमस्तुभ्यं योगेश्वर ! नमोऽस्तु ते ॥ ५८॥

वह्निनक्तञ्चरांश्चैव वरुणार्यमयोनकान् ।
मुहूर्तांश्च दक्षहस्तनखेषु भावयेन्नमः ॥ ५९॥

लग्नोदयाय दीर्घाय मार्गिणे दक्षदृष्टये ।
वक्राय चातिक्रूराय नमस्ते वामदृष्टये ॥ ६०॥

वामहस्तनखेष्वन्त्यवर्णेशाय नमोऽस्तु ते ।
गिरिशाहिर्बुध्न्यपूषाजपष्द्दस्त्रांश्च भावयेत् ॥ ६१॥

राशिभोक्त्रे राशिगाय राशिभ्रमणकारिणे ।
राशिनाथाय राशीनां फलदात्रे नमोऽस्तु ते ॥ ६२॥

यमाग्नि-चन्द्रादितिजविधातृंश्च विभावयेत् ।
ऊर्द्ध्व-हस्त-दक्षनखेष्वत्यकालाय ते नमः ॥ ६३॥

तुलोच्चस्थाय सौम्याय नक्रकुम्भगृहाय च ।
समीरत्वष्टजीवांश्च विष्णु तिग्म द्युतीन्नयसेत् ॥ ६४॥

ऊर्ध्व-वामहस्त-नखेष्वन्यग्रह निवारिणे ।
तुष्टाय च वरिष्ठाय नमो राहुसखाय च ॥ ६५॥

रविवारं ललाटे च न्यसेद्-भीमदृशे नमः ।
सोमवारं न्यसेदास्ये नमो मृतप्रियाय च ॥ ६६॥

भौमवारं न्यसेत्स्वान्ते नमो ब्रह्म-स्वरुपिणे ।
मेढ्रं न्यसेत्सौम्यवारं नमो जीव-स्वरुपिणे ॥ ६७॥

वृषणे गुरुवारं च नमो मन्त्र-स्वरुपिणे ।
भृगुवारं मलद्वारे नमः प्रलयकारिणे ॥ ६८॥

पादयोः शनिवारं च निर्मांसाय नमोऽस्तु ते ।
घटिका न्यसेत्केशेषु नमस्ते सूक्ष्मरुपिणे ॥ ६९॥

कालरुपिन्नमस्तेऽस्तु सर्वपापप्रणाशकः !।
त्रिपुरस्य वधार्थांय शम्भुजाताय ते नमः ॥ ७०॥

नमः कालशरीराय कालनुन्नाय ते नमः ।
कालहेतो ! नमस्तुभ्यं कालनन्दाय वै नमः ॥ ७१॥

अखण्डदण्डमानाय त्वनाद्यन्ताय वै नमः ।
कालदेवाय कालाय कालकालाय ते नमः ॥ ७२॥

निमेषादिमहाकल्पकालरुपं च भैरवम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७३॥

दातारं सर्वभव्यानां भक्तानामभयङ्करम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७४॥

कर्त्तारं सर्वदुःखानां दुष्टानां भयवर्धनम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७५॥

हर्त्तारं ग्रहजातानां फलानामघकारिणाम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७६॥

सर्वेषामेव भूतानां सुखदं शान्तमव्ययम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७७॥

कारणं सुखदुःखानां भावाऽभाव-स्वरुपिणम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७८॥

अकाल-मृत्यु-हरणऽमपमृत्यु निवारणम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७९॥

कालरुपेण संसार भक्षयन्तं महाग्रहम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ८०॥

दुर्निरीक्ष्यं स्थूलरोमं भीषणं दीर्घ-लोचनम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ८१॥

ग्रहाणां ग्रहभूतं च सर्वग्रह-निवारणम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ८२॥

कालस्य वशगाः सर्वे न कालः कस्यचिद्वशः ।
तस्मात्त्वां कालपुरुषं प्रणतोऽस्मि शनैश्चरम् ॥ ८३॥

कालदेव जगत्सर्वं काल एव विलीयते ।
कालरुपं स्वयं शम्भुः कालात्मा ग्रहदेवता ॥ ८४॥

चण्डीशो रुद्रडाकिन्याक्रान्तश्चण्डीश उच्यते ।
विद्युदाकलितो नद्यां समारुढो रसाधिपः ॥ ८५॥

चण्डीशः शुकसंयुक्तो जिह्वया ललितः पुनः ।
क्षतजस्तामसी शोभी स्थिरात्मा विद्युता युतः ॥ ८६॥

नमोऽन्तो मनुरित्येष शनितुष्टिकरः शिवे ।
आद्यन्तेऽष्टोत्तरशतं मनुमेनं जपेन्नरः ॥ ८७॥

यः पठेच्छ्र

अर्को