KaryaVidhan

सुवसंस्कार:

Page 1 of 1

सुचश्च म इति दक्षिणहस्तेन ऋजुं सुवमादाय -
ॐ सुचश्च मे चमसाश्च मे व्वायव्यानि च मे द्रोणकलशश्च मे ग्रावाणश्च मेधिषवणे च
मे पूतभृच्चम आधवनीयश्च मे व्वेदिश्च मे ब्बर्हिश्च मेवभृथश्च मे स्वगाकारश्च मे बज्ञेन
कल्पन्ताम्॥

पुनन्तु मेति पूर्वाग्रमधोबिलं सुबमग्नौ तापयेत् -
ॐ पुनतु मा देवजनाः पुनन्तु मनसा धियः। पुनन्तु व्विश्वा भूतानि जातवेदः पुनीहि मा॥

ततो वामे पाणावुत्तानबिलं निधाय 'प्रत्युष्ट छरक्ष' इति दक्षिणहस्तेन सम्मार्जनकुशैः प्रणीतोदकेन
सुवप्रोक्षणं कुर्यात् -
ॐ प्रत्युष्ट रक्षः प्रत्युष्टाऽअरातयो निष्टप्तरक्षो निष्टप्ताऽअरातयः। उर्व्वन्तरिक्षमन्वेमि॥

तत अनिशितोसीति दक्षिणहस्तधुतं सुवं सम्मार्जनकुशानामग्रैर्मूलतोऽग्रपर्यन्तं मूलैरग्रमारभ्य
अधस्तान्मूलपर्यन्तं समृज्य10-
ॐ अनिशितोसि सपत्क्नक्षिद्वाजिनन्त्वा वाजेध्यायै सम्मार्ज्मि॥

पुनन्तु मेति पुनः सुवं प्रतप्य -
ॐ पुनतु मा देवजनाः पुनन्तु मनसा धियः। पुनन्तु व्विश्वा भूतानि जातवेदः पुनीहि मा॥

शन्नो देवीरिति प्रणीतोदकेनाभिषिच्य -
ॐ शन्नो देवीरभिष्टयऽआपो भवन्तु पीतये। शंग्योरभिस्रवन्तु नः ॥

तत्त्वायामीति पुनः सुवं प्रतप्य -
ॐ तत्त्वायामि ब्ब्रहमणा व्वन्दमानस्तदाशास्ते यजमानो हविर्ब्भिः। अहेडमानो व्वरुणेह
बोध्युरुशसमानSआयुः प्रमोषीः ॥

तमुत्वेति स्रुवमुदङ्मुखमात्मनो दक्षिणतो कुशोपरि निदध्यात् -
ॐ तमुत्वा दध्यङ्ऋषिः पुत्रऽईधेऽअथर्वणः। व्वृत्रहणं पुरन्दरम्॥
।। इति सुवसंस्कारः ॥

तेजोऽसीति आज्यमुत्थाप्य चरोः पूर्वेण नीत्वा अग्नेरुत्तरतः स्थापयित्वा चरुमुत्थाप्य आज्यस्य पश्चिमतो नीत्वा आज्यस्योत्तरतः स्थापयित्वा आज्यमग्नेः पश्चादानीय स्थापयेत्-
ॐ तेजोऽसि शुक्रमस्यमृतमसि धामनामासि प्रियन्देवानामनाधृष्टन्देवयजनमसि॥

तथैव चरुं चानीय पशुभिरित्यग्नेः प्रदक्षिणं कारयित्वा आज्यस्योत्तरतः स्थापयेत्1१-
ॐ पशुभिः पशूनाप्नोति पुरोडाशैर्हवीष्या। छन्दोभिः सामिधेनीर्याज्याभिर्वषट्कारान्॥

आपवस्वेत्याज्यावेक्षणम्
ॐ आपवस्व हिरण्यवदश्ववत्सोम वीरवत्। वाजङ्गोमन्तमा भर स्वाहा॥

प्रत्युष्टछरक्ष इति पूर्वपवित्राभ्यामाज्येन त्रिरुत्पवनम् -
ॐ प्रत्युष्टरक्षः प्रत्युष्टाऽअरातयो निष्टप्त8रक्षो निष्टप्ताऽअरातयः। उर्व्वन्तरिक्षमन्वेमि॥

आत्वा हार्षमिति अपद्रव्यनिरीक्षणम् -
ॐ आत्वा हार्षमन्तरभूर्धुवस्तिष्ठाविचाचलिः। व्विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्द्राष्ट्रमधिब्भ्रशत्।।

विष्णोरराटमिति द्वे पवित्रे आज्ये चरौ च निदध्यात् -
ॐ व्विष्णोरराटमसि व्विष्णोः श्नप्त्रेस्थो व्विष्णोः स्यूरसि व्विष्णोर्धुवोसि। व्वैष्णवमसि
व्विष्णवेत्वा ।।

देवस्य त्वेति प्रोक्षणीपात्रस्थपवित्राभ्यां पूर्ववत् प्रोक्षणीमुत्पूय तेनाSSसादितवस्तुसेचनम् -
ॐ देवस्य त्वा सवितुः प्प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्। अग्नीषोमाभ्यान्त्वा जुष्टं
नियुनज्मि । अद्भ्यस्त्वौषधीभ्योऽनुत्वा माता मन्यतामनु पितानुब्भ्राता सगब्भ्योऽनुसखा सयूध्यः ।
अग्नीषोमाभ्यान्त्वा जुष्टम्प्रोक्षामि।

धृष्टिरसीति ज्वलदुल्मुकमाज्यचर्वोरुपरि समन्तात् प्रदक्षिणक्रमेण भ्रामयित्वाग्नौ क्षिपेत्-
ॐ धृष्टिरस्यपाग्नेअग्निमामादञ्जहि निष्क्रव्यादसेधा देवयजँ वह। धुवमसि पृथिवीन्दृ गूँ ह ब्ब्रहमवनि त्वा क्षत्रवनि सजातवन्युपदधामि भ्रातृव्यस्य व्वधाय॥