KaryaVidhan

१३. सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ॥

Page 1 of 1

। ध्यानम् ।
ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशवराभीतिर्धारयन्तीं शिवां भजे ॥

ॐ ऋषिरुवाच ॥ १३.१॥

एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ।
एवं प्रभावा सा देवी ययेदं धार्यते जगत् ॥ १३.२॥

विद्या तथैव क्रियते भगवद्विष्णुमायया ।
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ॥ १३.३॥

मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे ।
तामुपैहि महाराज शरणं परमेश्वरीम् ॥ १३.४॥

आराधिता सैव नृणां भोगस्वर्गापवर्गदा ॥ १३.५॥

मार्कण्डेय उवाच ॥ १३.६॥

इति तस्य वचः श्रुत्वा सुरथः स नराधिपः ॥ १३.७॥

प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ।
निर्विण्णोऽतिममत्वेन राज्यापहरणेन च ॥ १३.८॥

जगाम सद्यस्तपसे स च वैश्यो महामुने ।
सन्दर्शनार्थमम्बाया नदीपुलिनमास्थितः ॥ १३.९॥

स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् ।
तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम् ॥ १३.१०॥

अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ।
निराहारौ यतात्मानौ तन्मनस्कौ समाहितौ ॥ १३.११॥

ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् ।
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः ॥ १३.१२॥

परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ॥ १३.१३॥

देव्युवाच ॥ १३.१४॥

यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन ।
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते ॥ १३.१५॥

मार्कण्डेय उवाच ॥ १३.१६॥

ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि ।
अत्रैव च निजं राज्यं हतशत्रुबलं बलात् ॥ १३.१७॥

सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः ।
ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम् ॥ १३.१८॥

देव्युवाच ॥ १३.१९॥

स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् ॥ १३.२०॥

हत्वा रिपूनस्खलितं तव तत्र भविष्यति ॥ १३.२१॥

मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः ॥ १३.२२॥

सावर्णिको मनुर्नाम भवान्भुवि भविष्यति ॥ १३.२३॥

वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्छितः ॥ १३.२४॥

तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति ॥ १३.२५॥

मार्कण्डेय उवाच ॥ १३.२६॥

इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् ॥ १३.२७॥

बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता ।
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ॥ १३.२८॥

सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ॥ १३.२९॥

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ॥ क्लीं ॐ ॥

॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ॥ १३॥

उवाच ६, अर्धश्लोकाः ११, श्लोकाः १२, एवमादितः ॥ ७००॥

समस्ता उवाचमन्त्राः ५७, अर्धश्लोकाः ४२, श्लोकाः ५३५, अवदानानि ६६ ॥

॥ श्रीसप्तशतीदेवीमाहात्म्यं समाप्तम् ॥